This page has been fully proofread once and needs a second look.

२७४
 
शार्ङ्गधरपद्धतिः
 

1808
 

आत्मानं सुस्थिरं कृत्वा लक्ष्यं चैव स्थिरं बुधः ।

वेधयेत्त्रिप्रकारं तु स्थिरत्रेवेधी स उच्यते ॥ ९४ ॥
 

1809
 

चलं तु वेधयेद्यस्तु आत्मना स्थिर संस्थितः ।

चललक्ष्यं तु तत्प्रोक्तमाचार्येण सुधीमता ॥ ९५ ॥
 

1810
 

धन्त्रीवी तु चलते यत्र स्थिरलक्ष्ये समाहितः ।

चलाचलं भवेत्तत्र अप्रमेयमनिन्दितम् ॥ ९६ ॥
 
1811
 

1811
उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः ।

तद्विज्ञेयं द्वयचलं श्रमेणैव हि साध्यते ॥ ९७ ॥
 

1812
 

श्रमेणास्खलितं लक्ष्यं दूरं च बहुभेदनम् ।
 

श्रमेण कटिठिना मुष्टिः शीघ्रसंधानमाप्यते ॥ ९८ ॥
 

1813
 

श्रमेण चित्रयोधित्वं श्रमेण प्राप्यते जयः ।

तस्माद्गुरुसमक्षं हि श्रमः कार्यो विजानता ॥ ९९ ॥
 

1814
 

प्रथमं वामहस्तेन यः श्रमं कुरुते नरः ।
 

तस्य चापक्रियासिद्धिरचिरादेव जायते ॥ १०० ॥
 

1815
 

वामहस्ते तु संसिद्धे पश्चाद्दक्षिणमारभेत् ।

उभाभ्यां च श्रमं कुर्यान्नाराचैश्च शरैस्तथा ॥ १०१ ॥
 
SIL
 

1816
 

वामेनैव श्रमं कुर्यात्सुसिद्धे दक्षिणे करे ।

विशाखेनासमेनैव तथा व्याये च कैशिके ॥ १०२ ॥