शार्ङ्गधरपद्धतिः /289
This page has not been fully proofread.
२७४
शार्ङ्गधरपद्धतिः
1808
आत्मानं सुस्थिरं कृत्वा लक्ष्यं चैव स्थिरं बुधः ।
वेधयेत्रिप्रकारं तु स्थिरत्रेधी स उच्यते ॥ ९४ ॥
1809
चलं तु वेधयेद्यस्तु आत्मना स्थिर संस्थितः ।
चललक्ष्यं तु तत्प्रोक्तमाचार्येण सुधीमता ॥ ९५ ॥
1810
धन्त्री तु चलते यत्र स्थिरलक्ष्ये समाहितः ।
चलाचलं भवेत्तत्र अप्रमेयमनिन्दितम् ॥ ९६ ॥
1811
उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः ।
तद्विज्ञेयं द्वयचलं अमेणैव हि साध्यते ॥ ९७ ॥
1812
श्रमेणास्खलितं लक्ष्यं दूरं च बहुभेदनम् ।
श्रमेण कटिना मुष्टिः शीघ्रसंधानमाप्यते ॥ ९८ ॥
1813
श्रमेण चित्रयोधित्वं श्रमेण प्राप्यते जयः ।
तस्माद्गुरुसमक्षं हि श्रमः कार्यो विजानता ॥ ९९ ॥
1814
प्रथमं वामहस्तेन यः श्रमं कुरुते नरः ।
तस्य चापक्रियासिद्धिरचिरादेव जायते ॥ १०० ॥
1815
वामहस्ते तु संसिद्धे पश्चाइक्षिणमारभेत् ।
उभाभ्यां च श्रमं कुर्यान्नाराचैश्च शरैस्तथा ॥ १०१ ॥
SIL
1816
वामेनैव श्रमं कुर्यात्सुसिद्धे दक्षिणे करे ।
विशाखेनासमेनैव तथा व्याये च कैशिके ॥ १०२ ॥