This page has been fully proofread once and needs a second look.

धनुर्वेदः
 
1800
 

1800
अङ्गुष्ठनखमूले तु तर्जन्यमं मुसँग्रं सुसंस्थितम् ।
 

मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥ ८६ ॥
 
1801
 

1801
अङ्गुष्ठामेग्रे तु तर्जन्या मुखं यत्र निवेशितम् ।
 

काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥ ८७ ॥

 
अथ धनुर्मुष्टिसंधानम् ।
 

1802
 

संधानं त्रिविधं प्रोक्तमध ऊर्ध्वं समं तथा ।

योजयेत्रिप्रकारं हि कार्येष्वपि यथाक्रमम् ॥ ८८ ॥
 

1803
 

अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितम् ।

दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ॥ ८९ ॥

 
अथ व्याया !
: ।
1804
 

कैशिकः केशमूले चेच्छरः शृङ्गे च सात्त्विकः ।

श्रवणे वत्सकर्णश्च ग्रीवायां भरतो भवेत् ॥ ९० ॥
 

1805
 

अंसके स्कन्धनामा च व्यायाः पञ्च प्रकीर्तिताः ।

कैशिकश्चित्र युद्धेषु अधोलक्ष्येषु सात्विकः ॥ ९१॥
 
२७३
 

1806
 

वत्सकर्णः स विज्ञेयो भरतो दृढभेदने ।
 

दृढभेदे च दूरे च स्कन्धनामानमुद्दिशेत् ॥ २ ॥

 
अथ लक्ष्यम् ।

1807
 

लक्ष्यं चतुर्विधं ज्ञेयं स्थिरं चैव चलेंलं तथा ।

वेधयेत्त्रिप्रकारं तु स्थिरवेधी स उच्यते ॥ ९३ ॥