This page has not been fully proofread.

धनुर्वेदः
 
1800
 
अङ्गुष्ठनखमूले तु तर्जन्यमं मुसँस्थितम् ।
 
मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥ ८६ ॥
 
1801
 
अङ्गुष्ठामे तु तर्जन्या मुखं यत्र निवेशितम् ।
 
काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥ ८७ ॥
अथ धनुर्मुष्टिसंधानम् ।
 
1802
 
संधानं त्रिविधं प्रोक्तमध ऊर्ध्व समं तथा ।
योजयेत्रिप्रकारं हि कार्येष्वपि यथाक्रमम् ॥ ८८ ॥
 
1803
 
अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितम् ।
दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ॥ ८९ ॥
अथ व्याया !
1804
 
कैशिकः केशमूले चेच्छरः शृङ्गे च सात्विकः ।
श्रवणे वत्सकर्णश्च ग्रीवायां भरतो भवेत् ॥ ९० ॥
 
1805
 
अंसके स्कन्धनामा च व्यायाः पञ्च प्रकीर्तिताः ।
कैशिकश्चित्र युद्धेषु अधोलक्ष्येषु सात्विकः ॥ ९१॥
 
२७३
 
1806
 
वत्सकर्णः स विज्ञेयो भरतो दृढभेदने ।
 
दृढभेदे च दूरे च स्कन्धनामानमुद्दिशेत् ॥ १२ ॥
अथ लक्ष्यम् ।
1807
 
लक्ष्यं चतुर्विधं ज्ञेयं स्थिरं चैव चलें तथा ।
वेधयेत्रिप्रकारं तु स्थिरवेधी स उच्यते ॥ ९३ ॥