This page has been fully proofread once and needs a second look.

२७२
 
शार्ङ्गधरपद्धतिः
 
1791
 

1791
प्रत्यालीढं तु कर्तव्यं सव्यं चैवानुकुञ्चितम् ।

दक्षिणं च पुरस्तद्हूर द्दूरपाते विशिष्यते ॥ ७७ ॥
 

1792
 

पादौ सुविस्तरीरौ कार्योयौ समौ हस्तप्रमाणतः ।

विशाखस्थानकं ज्ञेयं कूटलक्ष्यस्य वेधने ॥ ७८ ॥
 

1793
 

समपादे समौ पादौ निष्कम्पौ च सुसंगतौ ।

असमे च पुरो वामो हस्तमात्रे नतं वपुः ॥ ७९ ॥
 

1794
 

आकुञ्चितोरू हौद्वौ यत्र जानुभ्यां धरणिं गतौ ।

दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥ ८० ॥
 

1795
 

सव्यं जानु गतं भूमौ दक्षिणं च सकुञ्चितम् ।

अग्रतो यत्र दातव्यं तं विद्याद्गरुडक्रमम् ॥ ८१ ॥
 

1796
 

पद्मासनं प्रसिद्धं तु उपविश्य यथाक्रमम् ।
 

धन्विनां तत्तु विज्ञेयं स्थानकं शुभलक्षणम् ॥ ८२ ॥

 
अथ गुणमुष्टयः ।
 
1797
 

1797
पताका वज्रमुष्टिश्च सिंहकर्णी तथैव च ।
 

मत्सरी काकतुण्डी च योजनीया यथाक्रमम् ॥ ८३ ॥
 

1798
 

दीर्घा तु तर्जनी यत्र आश्रिताङ्गुष्ठमूलकम् ।

पताका सा च विज्ञेया नलिका दूरमोक्षणे ॥ ८४ ॥
 
1799
 

1799
तर्जनी मध्यमामध्यमङ्गुष्ठो विशते यदि ।

वज्रमुष्टिस्तु सा ज्ञेया स्थूले नाराचमोक्षणे ॥ ८५ ॥