This page has not been fully proofread.

२७२
 
शार्ङ्गधरपद्धतिः
 
1791
 
प्रत्यालीढं तु कर्तव्यं सव्यं चैवानुकुञ्चितम् ।
दक्षिणं च पुरस्तवहूर पाते विशिष्यते ॥ ७७ ॥
 
1792
 
पादौ सुविस्तरी कार्यो समौ हस्तप्रमाणतः ।
विशाखस्थानकं ज्ञेयं कूटलक्ष्यस्य वेधने ॥ ७८ ॥
 
1793
 
समपादे समौ पादौ निष्कम्पौ च सुसंगतौ ।
असमे च पुरो वामो हस्तमात्रे नतं वपुः ॥ ७९ ॥
 
1794
 
आकुञ्चितोरू हौ यत्र जानुभ्यां धरणिं गतौ ।
दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥ ८० ॥
 
1795
 
सव्यं जानु गतं भूमौ दक्षिणं च सकुञ्चितम् ।
अग्रतो यत्र दातव्यं तं विद्यागरुडक्रमम् ॥ ८१ ॥
 
1796
 
पद्मासनं प्रसिद्धं तु उपविश्य यथाक्रमम् ।
 
धन्विनां तत्तु विज्ञेयं स्थानकं शुभलक्षणम् ॥ ८२ ॥
अथ गुणमुष्टयः ।
 
1797
 
पताका वज्रमुष्टिश्च सिंहकर्णी तथैव च ।
 
मत्सरी काकतुण्डी च योजनीया यथाक्रमम् ॥ ८३ ॥
 
1798
 
दीर्घा तु तर्जनी यत्र आश्रिताङ्गुष्ठमूलकम् ।
पताका सा च विज्ञेया नलिका दूरमोक्षणे ॥ ८४ ॥
 
1799
 
तर्जनी मध्यमामध्यमङ्गुष्ठो विशते यदि ।
वज्रमुष्टिस्तु सा ज्ञेया स्थूले नाराचमोक्षणे ॥ ८५ ॥