This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

1783
 

पिप्पली सैन्धवं कुष्ठं गोमूत्रेण तु पेषयेत् ।

अनेन लेपयेच्छस्त्रं लिप्नंतं चाग्नौ प्रतापयेत् ॥ ६९ ॥
 

1784
 

अविशीतमनाविद्धं पीतनष्टं तथौषधम् ।
 

ततो निर्वापितं तैले लोहं तत्र विशिष्यते ॥ ७० ॥

1785
 

पञ्चभिर्लवणैः पिष्टैर्मधुसिक्तैः ससर्षपैः ।

एभिः प्रलेपयेच्छस्त्रं लिप्नंतं चामौग्नौ प्रतापयेत् ॥ ७१ ॥
 

1786
 

शिखिमीग्रीवानुवर्णाभं तप्तपीतं तथौषधम् ।

ततस्तु विमलं तोयं पाययेच्छस्त्रमुत्तमम् ॥ ७२ ॥

 
अथ नाराचनालीको ।
 
1787
 
कौ ।
1787
सर्वलोहास्तु ये बाणा नाराचास्ते प्रकीर्तिताः ।
 

पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिद्ध्यन्ति कस्यचित् ॥ ७३ ॥
 
2
 
1788
 

1788
नालीका लघवो बाणा नलयन्त्रेण नोदिताः ।

अत्युच्चदूर पातेषु दुर्गयुद्धेषु ते मताः ॥ ७४ ॥
 

 
अथ स्थानमुष्ट्याकर्षणलक्षणानि ।
 
२७१
 

1789
 

स्थानान्यष्टौ विधेयानि योजने भिन्नकर्मणाम् ।
 

मुष्टयःट्य: पञ्च समाख्याना व्यायाः पञ्च प्रकीर्तिताः ॥ ७५ ॥
 

1790
 

अग्रतो वामपादं च दक्षिणं जानु कुञ्चितम् ।
 

आलीढं तु
 
प्रकर्तव्यं हस्तद्वय सविस्तरम् ॥ ७६ ॥