This page has not been fully proofread.

धनुर्वेदः
 
1783
 
पिप्पली सैन्धवं कुठं गोमूत्रेण तु पेषयेत् ।
अनेन लेपयेच्छस्त्रं लिप्नं चानौ प्रतापयेत् ॥ ६९ ॥
 
1784
 
अविशीतमनाविद्धं पीतनष्टं तथौषधम् ।
 
ततो निर्वापितं तैले लोहं तत्र विशिष्यते ॥ ७० ॥
1785
 
पञ्चभिर्लवणैः पिटैर्मधुसिक्तैः ससर्षपैः ।
एभिः प्रलेपयेच्छस्त्रं लिप्नं चामौ प्रतापयेत् ॥ ७१ ॥
 
1786
 
शिखिमीवानुवर्णाभं तप्तपीतं तथौषधम् ।
ततस्तु विमलं तोयं पाययेच्छस्त्रमुत्तमम् ॥ ७२ ॥
अथ नाराचनालीको ।
 
1787
 
सर्वलोहास्तु ये बाणा नाराचास्ते प्रकीर्तिताः ।
 
पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिद्ध्यन्ति कस्यचित् ॥ ७३ ॥
 
2
 
1788
 
नालीका लघवो बाणा नलयन्त्रेण नोदिताः ।
अत्युचदूर पातेषु दुर्गयुद्धेषु ते मताः ॥ ७४ ॥
 
अथ स्थानमुष्ट्याकर्षणलक्षणानि ।
 
२७१
 
1789
 
स्थानान्यष्टौ विधेयानि योजने भिन्नकर्मणाम् ।
 
मुष्टयः पञ्च समाख्याना व्यायाः पञ्च प्रकीर्तिताः ॥ ७५ ॥
 
1790
 
अग्रतो वामपादं च दक्षिणं जानु कुञ्चितम् ।
 
आलीढं तु
 
प्रकर्तव्यं हस्तद्वय सविस्तरम् ॥ ७६ ॥