This page has been fully proofread once and needs a second look.

२७०
 
शार्ङ्गधरपद्धतिः
 

 
1774
 

शराच त्रिविधा ज्ञेयाः स्त्री पुमांश्च नपुंसकः ।

अग्रे स्थूलो भवेन्नारी पश्चात्स्थूलो भवेत्पुमान् ॥ ६० ॥
 

1775
 

समं नपुंसकं ज्ञेयं तल्लक्ष्यार्थीथं प्रशस्यते ।
 

दूरापातं युवत्या च पुरुषो भेदयेहृद्दृढम् ॥ ६१ ॥

 
अथ फललक्षणानि ।
 

1776
 

फलं तु शुद्धलोहस्य सुधारं तीक्ष्णमक्षतम् ।

योजयेद्वज्रलेपेन शरे पक्षानुमानतः ॥ ६२ ॥
 
1777
 

1777
आरामुखं क्षुरमंग्रं च गोपुच्छं चार्धचन्द्रकम् ।

सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ ६३ ॥
 

1778
 

कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः ।

फलानि देशदेशेषु भवन्ति बहुरूपतः ॥ ६४ ॥
 

1779
 

आरामुखेन वै चर्म क्षुरप्ग्रेण च कार्मुकम् ।

सूचीमुखेन कवचमर्धचन्द्रेण मस्तकम् ॥ ६५॥
 

1780
 

भल्लेन हृदयं वेध्यं द्विभल्लेन गुण: शरः ।
 

लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ॥ ६६ ॥
 

1781
 

अन्यनोद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितम् ।

मुखे च लोहकण्टेन वेध्यं व्त्र्यङ्गुलसंमितम् ॥ ६७ ॥

 
अथ फलपायनम् ।
 

1782
 

फलस्य पायनं वक्ष्ये दिव्यौषधिविलेपनैः ।

येन दुर्भेद्यवर्माणि भेदयेत्तरुपर्णवत् ॥ ६८ ॥