शार्ङ्गधरपद्धतिः /285
This page has not been fully proofread.
२७०
शार्ङ्गधरपद्धतिः
1774
शराच त्रिविधा ज्ञेयाः स्त्री पुमांच नपुंसकः ।
अग्रे स्थूलो भवेन्नारी पश्चात्स्थूलो भवेत्पुमान् ॥ ६० ॥
1775
समं नपुंसकं ज्ञेयं तल्लक्ष्यार्थी प्रशस्यते ।
दूरापातं युवत्या च पुरुषो भेदयेहृढम् ॥ ६१ ॥
अथ फललक्षणानि ।
1776
फलं तु शुद्धलोहस्य सुधारं तीक्ष्णमक्षतम् ।
योजयेइज्रलेपेन शरे पक्षानुमानतः ॥ ६२ ॥
1777
आरामुखं क्षुरमं च गोपुच्छं चार्धचन्द्रकम् ।
सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥ ६३ ॥
1778
कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः ।
फलानि देशदेशेषु भवन्ति बहुरूपतः ॥ ६४ ॥
1779
आरामुखेन वै चर्म क्षुरप्रेण च कार्मुकम् ।
सूचीमुखेन कवचमर्धचन्द्रेण मस्तकम् ॥ ६५॥
1780
भल्लेन हृदयं वेध्यं द्विभल्लेन गुण: शरः ।
लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ॥ ६६ ॥
1781
अन्यनोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितम् ।
मुखे च लोहकण्टेन वेध्यं व्यङ्गुलसंमितम् ॥ ६७ ॥
अथ फलपायनम् ।
1782
फलस्य पायनं वक्ष्ये दिव्यौषधिविलेपनैः ।
येन दुर्भेयवर्माणि भेदयेत्तरुपर्णवत् ॥ ६८ ॥