This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

1765
 
पक्क

पक्व
वंशत्वचा कार्यो गुणस्तु स्थावरो दृढः ।

पट्टसूत्रेण संनद्धः सर्वकर्मसहो युधि ॥ ५१ ॥
 

1766
 

प्राप्ते भाद्रपदे मासि त्वगर्कस्य प्रशस्यते ।
 

तस्यास्तत्र गुण: कार्यः पवित्र स्थावरो दृढः ॥ ५२ ॥
 

1767
 

वृत्तार्कसूत्रतन्तूनां हस्तास्त्वष्टादश स्मृताः ।

सद्वृत्तं त्रिगुणं कार्यं प्रमाणोयं गुणे स्मृतः ॥ ५३ ॥
 

 
अथ शरलक्षणानि ।
 

1768
 

अतः परं प्रवक्ष्यामि शराणां लक्षणं शुभम् ।

स्थूलं न चातिसूक्ष्मं च न पक्कंवं न कुभूमिजम् ।

हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरम् ॥ ५४ ॥
 

1769
 


पूर्णग्रन्थि सुपकंक्वं च पाण्डुरं समयाहृतम्

कठिनं वर्तुलं काण्डं गृह्णीयात्सुप्रदेशजम् । ५५ ॥
 

1770
 
हो

द्वौ
हस्तीतौ मुष्टिहीनौ तु दैर्घ्ये स्थौल्ये कनिष्ठिका ।

विधेया शरमानेषु यन्त्रेष्वाकर्षयेत्ततः ॥ ५६ ॥
 
1771
 
२६९
 

1771
कङ्कहंसशशादानां मत्स्या दक्रौञ्चकेकिनाम् ।

गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ॥ ५७ ॥
 

1772
 

एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत् ।

षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ॥ ५८ ॥
 

1773
 

दशाङ्गुलमिता: पक्षा: शार्ङ्गचापस्य मार्गणे ।
 

योज्या दृढाश्चतु:संख्याः संनद्धाः स्नायुतन्तुभिः ॥ ५९ ॥