This page has not been fully proofread.

धनुर्वेदः
 
1765
 
पक्कवंशत्वचा कार्यो गुणस्तु स्थावरो दृढः ।
पट्टसूत्रेण संनद्धः सर्वकर्मसहो युधि ॥ ५१ ॥
 
1766
 
प्राप्ते भाद्रपदे मासि त्वगर्कस्य प्रशस्यते ।
 
तस्यास्तत्र गुण: कार्यः पवित्र स्थावरो दृढः ॥ ५२ ॥
 
1767
 
वृत्तार्कसूत्रतन्तूनां हस्तास्त्वष्टादश स्मृताः ।
सद्वृत्तं त्रिगुणं कार्य प्रमाणोयं गुणे स्मृतः ॥ ५३ ॥
 
अथ शरलक्षणानि ।
 
1768
 
अतः परं प्रवक्ष्यामि शराणां लक्षणं शुभम् ।
स्थूलं न चातिसूक्ष्मं च न पक्कं न कुभूमिजम् ।
हीनग्रन्थिविदीर्ण च वर्जयेदीदृशं शरम् ॥ ५४ ॥
 
1769
 

पूर्णग्रन्थि सुपकं च पाण्डुरं समयाहतम्
कठिनं वर्तुलं काण्डं गृह्णीयात्सुप्रदेशजम् । ५५ ॥
 
1770
 
हो हस्ती मुष्टिहीनौ तु दैये स्थौल्ये कनिष्ठिका ।
विधेया शरमानेषु यन्त्रेष्वाकर्षयेत्ततः ॥ ५६ ॥
 
1771
 
२६९
 
कङ्कहंसशशादानां मत्स्या दक्रौञ्चककिनाम् ।
गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ॥ ५७ ॥
 
1772
 
एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत् ।
षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ॥ ५८ ॥
 
1773
 
दशाङ्गुलमिता: पक्षा: शार्ङ्गचापस्य मार्गणे ।
 
योज्या दृढाश्चतु:संख्याः संनद्धाः स्नायुतन्तुभिः ॥ ५९ ॥