This page has been fully proofread once and needs a second look.

२६८
 
शार्ङ्गधरपद्धतिः
 

1756
 

गलग्रन्थि तलग्रन्थि धनहानिकरं धनुः ।

एभिर्देषैिदोषैर्विनिर्मुक्तं सर्वकार्यकरं स्मृतम् ॥ ४२ ॥
 

1757
 

शार्ङ्गं पुनर्धनुर्दिव्यं विष्णोः परममायुधम् ।

वितस्तिसप्तसंमानं निर्मितं विश्वकर्मणा ॥ ४३ ॥
 

1758
 

न च स्वर्गे न पाताले न भूमोमौ कस्यचित्करे ।

तद्धनुर्वशमायाति मुक्कैत्तैकं पुरुषोत्तमम् ॥ ४४ ॥
 

1759
 

पौरुषेयं तु यच्छार्ङ्गं बहुवत्सर शोषितम् ।

वितस्तिभिः सार्धपद्षट्भिर्मितं सर्वार्थसाधनम् ॥ ४५ ॥
 

1760
 

प्रायो योग्यं धनुः शार्ङ्गं गजारोहा श्वसादिनाम् ।

रथिनां च पदातीनां वांशं चापं प्रकीर्तितम् ॥ ४६ ॥

 
अथ गुणलक्षणानि ।
 

1761
 

गुणानां लक्षणं वक्ष्ये यादृशं कारयेद्गुणम् ।

पट्टसूत्रो गुणः कार्यः कनिष्ठामानसंमितः ॥ ४७ ॥
 

1762
 

धनुःप्रमाणो निःसन्धिः शुद्धैत्रिगुणतन्तुभिः ।

वर्तितः स्याद्गुण: श्लक्ष्णः सर्वकर्मसहो युधि ॥ ४८ ॥
 

1763
 

अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते ।

गुणार्थमथवा ग्राह्याः स्नायवो महिषीगवाम् ॥ ४९ ॥
 

1764
 

त्कालहतगोकर्ण चर्मणा छागलेन वा ।
 

निर्लोम्माना तन्तुरूपेण कुर्यादाद्वा गुणमुत्तमम् ॥ ५० ॥