This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

1747
 

कृते युगे महादेवस्त्रेतायां चापि राघवः ।

द्वापरे द्रोणावेणविप्रश्च दैवं चापमधारयत् ॥ ३३ ॥
 

1748
 

चतुर्विशाङ्गुलो हस्तश्चतुर्हस्तं धनुः स्मृतम् ।

तद्भवेन्मानवं चापं सर्वलक्षणसंयुतम् ॥ ३४ ॥
 

1749
 

त्रिपर्व पञ्चपर्व च सप्तपर्व प्रकीर्तितम् ।
 

नवपर्व च कोदण्डं चतुर्धा शुभकारकम् ॥ ३५ ॥
 

1750
 

चतुःपर्व च षट्पर्व अष्टपर्व विवर्जयेत् ।

केषांचिच्च भवेच्चापं वितस्तिनवसंमितम् ॥ ३६ ॥
 
२६७
 

1751
 

अतिजीर्णमपक्कंवं च ज्ञातिधृष्टं तथैव च ।

दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तर हस्तकम् ॥ ३७ ॥
 

1752
 

गुणहीनं गुणाक्रान्तं काण्डदोषसमन्वितम् ।

गलग्रन्थि न कर्तव्यं तलमध्ये तथैव च ॥ ३८ ॥
 

1753
 

अपक्कंवं भङ्गमायाति अतिजीर्णं तु कर्कशम् ।
 

ज्ञातिघृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥ ३९ ॥
 

1754
 

दग्धेन दह्यते वेश्म छिद्रं युद्धविनाशनम् ।
 

बाह्ये लक्ष्यं न लभ्येत तथैवाभ्यन्तरेपि वा ॥ ४० ॥
 

1755
 

हीने तु संघिते बाणे संग्रामे भङ्गकारकम् ।
तु
 

आक्रान्ते तु पुनः क्कावापि न लक्ष्यं प्राप्यते दृढम् ॥ ४१ ॥