This page has not been fully proofread.

धनुर्वेदः
 
1747
 
कृते युगे महादेवस्त्रेतायां चापि राघवः ।
द्वापरे द्रोणावेप्रश्च दैवं चापमधारयत् ॥ ३३ ॥
 
1748
 
चतुविशालो हस्तश्चतुर्हस्तं धनुः स्मृतम् ।
तद्भवेन्मानवं चापं सर्वलक्षणसंयुतम् ॥ ३४ ॥
 
1749
 
त्रिपर्व पञ्चपर्व च सप्तपर्व प्रकीर्तितम् ।
 
नवपर्व च कोदण्डं चतुर्धा शुभकारकम् ॥ ३५ ॥
 
1750
 
चतुःपर्व च षट्पर्व अष्टपर्व विवर्जयेत् ।
केषांचिच्च भवेच्चापं वितस्तिनवसंमितम् ॥ ३६ ॥
 
२६७
 
1751
 
अतिजीर्णमपक्कं च ज्ञातिधृष्टं तथैव च ।
दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तर हस्तकम् ॥ ३७ ॥
 
1752
 
गुणहीनं गुणाक्रान्तं काण्डदोषसमन्वितम् ।
गलग्रन्थि न कर्तव्यं तलमध्ये तथैव च ॥ ३८ ॥
 
1753
 
अपक्कं भङ्गमायाति अतिजीर्ण तु कर्कशम् ।
 
ज्ञातिघृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥ ३९ ॥
 
1754
 
दग्धेन दह्यते वेश्म छिद्रं युद्धविनाशनम् ।
 
बाह्ये लक्ष्यं न लभ्येत तथैवाभ्यन्तरेपि वा ॥ ४० ॥
 
1755
 
हीने त संघिते बाणे संग्रामे भङ्गकारकम् ।
तु
 
आक्रान्ते तु पुनः क्कापि न लक्ष्यं प्राप्यते दृढम् ॥ ४१ ॥