This page has been fully proofread once and needs a second look.

२६६
 
शार्ङ्गधरपद्धतिः
 

1738
 

वेधने चैव मांसस्य शरपातो यदा भवेत् ।

पूर्वदिग्भागमाश्रित्य तदा स्याद्विजयी सुखी ॥ २४ ॥
 

1739
 

दक्षिणे कलहो घोरो विदेशगमनं पुनः ।

पश्चिमे धनधान्यं च सर्वं चैवोत्तरे शुभम् ॥ २५ ॥
 

1740
 

ऐशान्यां पतनं दुष्टं विदिशोन्याश् शोभनाः ।

हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ॥ २६ ॥
 
1741
 

1741
एवं वेधत्रयं कुर्याच्छङ्दुन्दुभिनिःस्वनैः ।

ततः प्रणम्य गुरवे धनुर्बाणान्निवेदयेत् ॥ २७ ॥

 
अथ चापप्रमाणम् ।
 

1742
 

प्रथमं यौगिकं चापं युद्धचापं द्वितीयकम् ।

निजबाहुबलान्मानात्किंचिदूनं शुभं धनुः ॥ २८ ॥
 

1743
 

वरं प्राणाधिको धन्वी न तु प्राणाधिकं धनुः ।

धनुषा पीडचड्यमानस्तु धन्वी लक्ष्यं न पश्यति ॥ २९ ॥
 
1744
 

1744
अतो निजबलोन्मानं चापं स्याच्छुभकारकम् ।

देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥ ३० ॥
 

1745
 

अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितम् ।

तद्विज्ञेयं धनुर्दिव्यं शंकरेण घृधृतं पुरा ॥ ३१ ॥
 

1746
 

तस्मात्परशुरामेण ततो द्रोणेन धारितम् ।
 

द्रोणाद्गृहीतं पार्थेन ततः सात्यकिना धृतम् ॥ ३२ ॥