This page has not been fully proofread.

२६६
 
शार्ङ्गधरपद्धतिः
 
1738
 
वेधने चैव मांसस्य शरपातो यदा भवेत् ।
पूर्वदिग्भागमाश्रित्य तदा स्याद्विजयी सुखी ॥ २४ ॥
 
1739
 
दक्षिणे कलहो घोरो विदेशगमनं पुनः ।
पश्चिमे धनधान्यं च सर्वं चैवोत्तरे शुभम् ॥ २५ ॥
 
1740
 
ऐशान्यां पतनं दुष्टं विदिशोन्याच शोभनाः ।
हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ॥ २६ ॥
 
1741
 
एवं वेधत्रयं कुर्याच्छङ्कदुन्दुभिनिःस्वनैः ।
ततः प्रणम्य गुरवे धनुर्बाणान्निवेदयेत् ॥ २७ ॥
अथ चापप्रमाणम् ।
 
1742
 
प्रथमं यौगिकं चापं युद्धचापं द्वितीयकम् ।
निजबाहुबलान्मानात्किंचिदूनं शुभं धनुः ॥ २८ ॥
 
1743
 
वरं प्राणाधिको धन्वी न तु प्राणाधिकं धनुः ।
धनुषा पीडचमानस्तु धन्वी लक्ष्यं न पश्यति ॥ २९ ॥
 
1744
 
अतो निजबलोन्मानं चापं स्याच्छुभकारकम् ।
देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥ ३० ॥
 
1745
 
अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितम् ।
तद्विज्ञेयं धनुर्दिव्यं शंकरेण घृतं पुरा ॥ ३१ ॥
 
1746
 
तस्मात्परशुरामेण ततो द्रोणेन धारितम् ।
 
द्रोणाहीतं पार्थेन ततः सात्यकिना धृतम् ॥ ३२ ॥