This page has been fully proofread once and needs a second look.

18
 
धनुर्वेदः
 

1729
 

अन्नपानादिभिश्चैव वस्त्रालंकारभूषणैः ।

गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥ १६ ॥
 

1730
 

कृतोपवासः शिष्यस्तु मृगाजिनपरिग्रहः ।

बद्धाञ्जलिपुटस्तत्र याचयेद्गुरुतो धनुः ॥ १७ ॥
 
1731
 

1731
अङ्गन्यासस्ततः कार्यः शिवोक्तः सिद्धिमिच्छता ।

आचार्येण च शिष्यस्य पापघ्नो विघ्ननाशनः ॥ १८ ॥
 

1732
 

शिखास्थाने न्यसेदीशं बाहुयुग्मे च केशवम् ।

ब्रह्माणं नाभिकूपे तु जङ्घयोश्च गणाधिपम् ॥ १९ ॥
 
1733
 

1733
ॐ ह्रौं शिखास्थाने शंकराय नमः ।
 

ॐ ह्रींरौं बाह्रोःवोः केशवाय नमः ।
 
:
 

ॐ ह्रौं नाभिमध्ये ब्रह्मणे नमः ।

ॐ ह्रौं जङ्घयोर्गणपतये नमः ।
 

1734
 

ईदृशं कारयेन्यासं येन श्रेयो भविष्यति ।

अन्येपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ॥ २० ॥
 

1735
 
२६५
 

शिष्याय मानुषं चापं धनुर्मन्त्राभिमन्त्रितम् ।

काण्डात्काण्डाभिमन्त्रेण दद्याद्वेद विधानतः ॥ २१ ॥
 

1736
 

प्रथमं पुष्पवेधं च फलहीनेन पचित्त्रिणा ।
 

ततः फलयुतेनैव मत्स्यवेधं च कारयेत् ॥ २२ ॥
 
1737
 

1737
मांसवेधं ततः कुर्यादेवं वेधो भवेत्रिधा ।
 

एतैर्वेधैः कृतैः पुंसां शराः स्युः सर्वसाधकाः ॥ २३ ॥