This page has been fully proofread once and needs a second look.

तुरगप्रशंसा
 

 
अथ वाजिनां वयोज्ञानायुर्ज्ञाने ।
 

1698
 

दन्तोद्भेदं प्रवक्ष्यामि वाजिनां मुख्यलक्षणम् ।
 

येन विज्ञामात्रेण वयोज्ञानं प्रतीयते ॥ १०१ ॥
 

1699
 

ड्भिर्दन्तै: सिताभैर्भत्रति हयशिशुस्तैः कषायैर्द्विरब्दः

संदंशैर्मध्यमान्त्यैः पतितस मुदितैखिस्त्रिश्चतुःपञ्चवर्षः ।

संदंशानुक्रमेण त्रिकसमगुणिता: कालिकापीत शुक्लाः

काचं माक्षीकशङ्काखावटुचलनमंतश्चात्रपातं च विद्धि ॥ १०२ ॥
 

1700
 

लघुत्वं मातृदोषेण पितृदोषेण मन्दता ।

दौर्बल्यं स्वामिदोषेण स्त्रदोषो नास्ति वाजिनाम् ॥१०३॥
 
२६१
 

1701
 

महाघोणा महाकाया महोरस्का महास्वनाः ।

स्निग्धाङ्गाः सर्वदा ये च तेषामायुर्भवेद्हु ॥ १०४ ॥
 

1702
 

कर्णामेग्रे पीडिते येषां सिन्दूरास्य दर्शनम् ।

शोणितस्य भवेत्क्षिप्रं ते वाहाश्चिरजीविनः ॥ १०५ ॥
 

1703
 

स्निग्धा दीर्घाश्च बह्व्यश्च प्रोथस्था यस्य वाजिनः ।

भवन्ति विपुला रेखास्तं विद्याच्चिरजीविनम् ॥ १०६ ॥
 

1704
 

नभो जिघ्रान्ति ये वाहा भास्करार्पितदृष्टयः ।

पृथुकुक्षिकटीकाकक्षा: सुनिद्राधिश्चिरजीविनः ॥ १०७ ॥
 

1705
 

न विष्किरन्ति ये ग्रासं सुभक्षा ह्रस्वमेहनाः ।

महाशिरोललाटाश्च ते वाहाश्विरजीविनः ॥ १०८ ॥