This page has not been fully proofread.

तुरगप्रशंसा
 
अथ वाजिनां वयोज्ञानायुर्ज्ञाने ।
 
1698
 
दन्तोद्भेदं प्रवक्ष्यामि वाजिनां मुख्यलक्षणम् ।
 
येन विज्ञानमात्रेण वयोज्ञानं प्रतीयते ॥ १०१ ॥
 
1699
 
षभिर्दन्तै: सिताभैर्भत्रति हयशिशुस्तैः कषायैर्द्विरब्दः
संदंशैर्मध्यमान्त्यैः पतितस मुदितैखिश्चतुःपञ्चवर्षः ।
संदंशानुक्रमेण त्रिकसमगुणिता: कालिकापीत शुक्लाः
काचं माक्षीकशङ्काटुचलनमंतश्चात्रपातं च विद्धि ॥ १०२ ॥
 
1700
 
लघुत्वं मातृदोषेण पितृदोषेण मन्दता ।
दौर्बल्यं स्वामिदोषेण स्त्रदोषो नास्ति वाजिनाम् ॥१०३॥
 
२६१
 
1701
 
महाघोणा महाकाया महोरस्का महास्वनाः ।
स्निग्धाङ्गाः सर्वदा ये च तेषामायुवेद्वहु ॥ १०४ ॥
 
1702
 
कर्णामे पीडिते येषां सिन्दूरामस्य दर्शनम् ।
शोणितस्य भवेत्क्षिप्रं ते वाहाश्चिरजीविनः ॥ १०५ ॥
 
1703
 
स्निग्धा दीर्घाश्च बह्यश्च प्रोथस्था यस्य वाजिनः ।
भवन्ति विपुला रेखास्तं विद्याच्चिरजीविनम् ॥ १०६ ॥
 
1704
 
नभो जिघ्रान्ति ये वाहा भास्करार्पितदृष्टयः ।
पृथुकुक्षिकटीका सुनिद्राधिरजीविनः ॥ १०७ ॥
 
1705
 
न विष्किरन्ति ये ग्रासं सुभक्षा ह्रस्वमेहनाः ।
महाशिरोललाटाश्च ते वाहाश्विरजीविनः ॥ १०८ ॥