This page has been fully proofread once and needs a second look.

२६०
 
शार्ङ्गधरपद्धतिः
 

1689
 

कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा ।

सर्वस्य प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ २ ॥
 

1690
 

अस्थाने ताडितो वाजी बहून्दोपाषानवाप्नुयात् ।

तावद्भवन्ति ते दोपाषा यावज्जीवत्यसो हयः ॥ ९३ ॥
 
1691
 

1691
अवाहिता विनश्यन्ति सर्वकर्मक्षमा अपि ।
 

कृशा व्याधिपरीताङ्गा जायन्तेत्यन्तवाहनात् ॥ ४ ॥
 

1692
 

पञ्च धारा: प्रवक्ष्यामि ऋषिभिर्याः प्रकीर्तिताः ।

प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता ॥ ९५ ॥
 

1693
 

तृतीया पूर्णकण्डीठी च चतुर्थी त्वरिता स्मृता ।

पञ्चमी ताडिता पट्टीषष्ठी निरालम्बा प्रकीर्तिता ॥ ९६ ॥
 

1694
 

विक्रमा गतिरित्युक्ता चतुष्पादा हुप्लुता स्मृता ।

मुखपादसमायुक्ता पूर्णकण्डीठी च सा भवेत् ॥ ९७ ॥
 

1695
 

स्वेच्छया त्वरिता धार। ताडिता चैव पञ्चमी ।

षष्ठी चैव तु या धारा स्वर्गलोकेषु तिष्ठति ॥ ८ ॥
 
1696
 

1696
या संख्या रोमकूपाणां वाहकस्य हयस्य च ।
ता

तावद्
वर्षान्वसेत्स्वर्गे हयपृष्ठे हतो नरः ॥ ९९ ॥
 

1697
 

यं लोकं वाजिपृष्ठेषु हता गच्छन्ति मानवाः ।

तं लोकं नाधिगच्छन्ति वडवासु हताश्च ये ॥ १०० ॥