This page has not been fully proofread.

२६०
 
शार्ङ्गधरपद्धतिः
 
1689
 
कुपिते पुच्छसंस्थानं भ्रान्ते जानुइयं तथा ।
सर्वस्य प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ १२ ॥
 
1690
 
अस्थाने ताडितो वाजी बहून्दोपानवाप्नुयात् ।
तावद्भवन्ति ते दोपा यावज्जीवत्यसो हयः ॥ ९३ ॥
 
1691
 
अवाहिता विनश्यन्ति सर्वकर्मक्षमा अपि ।
 
कृशा व्याधिपरीताङ्गा जायन्तेत्यन्तवाहनात् ॥ १४ ॥
 
1692
 
पञ्च धारा: प्रवक्ष्यामि ऋषिभिर्याः प्रकीर्तिताः ।
प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता ॥ ९५ ॥
 
1693
 
तृतीया पूर्णकण्डी च चतुर्थी त्वरिता स्मृता ।
पञ्चमी ताडिता पट्टी निरालम्बा प्रकीर्तिता ॥ ९६ ॥
 
1694
 
विक्रमा गतिरित्युक्ता चतुष्पादा हुता स्मृता ।
मुखपादसमायुक्ता पूर्णकण्डी च सा भवेत् ॥ ९७ ॥
 
1695
 
स्वेच्छया त्वरिता धार। ताडिता चैव पञ्चमी ।
षष्ठी चैव तु या धारा स्वर्गलोकेषु तिष्ठति ॥ १८ ॥
 
1696
 
या संख्या रोमकूपाणां वाहकस्य हयस्य च ।
तावर्षान्वसेत्स्वर्गे हयपृष्ठे हतो नरः ॥ ९९ ॥
 
1697
 
यं लोकं वाजिपृष्ठेषु हता गच्छन्ति मानवाः ।
तं लोकं नाधिगच्छन्ति वडवासु हताश्च ये ॥ १०० ॥