This page has not been fully proofread.

तुरगप्रशंसा
 
1680
 
तस्माद्वेगयुतं वाहं तरुणं पुष्टविग्रहम् ।
 
वाहयेद्दाहकः सज्जस्तुरंगं सान्त्वयन्मुहुः ॥ ८३ ॥
 
1681
 
सान्द्रां सुकटिनां चैव पाषाणोदकसंयुताम् ।
तृकाष्ठतां चैव रङ्गभूमिं विवर्जयेत् ॥ ८४ ॥
 
1682
 
.
 
समा च विपुला चैव किंचित्पांशुसमन्त्रिता ।
 
एकान्ते विजने चैव रङ्गभूमिः प्रशस्यते ॥ ८५ ॥
 
1583
 
स्थूलच क्रोधनो मूर्खो भोकलासनः ।
अस्थानदण्डपाती यो बाजी तस्य न धावति ॥ ८६ ॥
 
1684
 
दृढासनोश्वतत्त्वज्ञः प्राज्ञः सत्त्वबलोत्तरः ।
 
सुस्थानदण्डपाती च सोद्यमो वाहकः स्मृतः ॥ ८७ ॥ ।
 
1685
 
चलकिसलयपाद: कर्णमध्येकदृष्टि-
र्न चलति कटिदेशे स्वासने संस्थिता ।
हयहृदयमतिज्ञः स्थानदण्डावपाती
 
स खलु तुरगयोक्ता पूज्यते पार्थिवेन्द्रैः । ८८ ॥
 
1686
 
ब्राह्मणं भक्तिदानेन सौम्येन क्षत्रियं तथा ।
 
वैश्यं शब्देन दण्डेन शुद्रं दण्डेन वाहयेत् ॥ ८९ ॥
 
1687
 
हेषिते स्खलिते भीते तथा चोन्मार्गगामिनि ।
 
कुपिते भ्रान्तनित्ते च षट्सु दण्डं निपातयेत् ॥ ९० ॥
 
1688
 
२५९
 
द्वेषिते स्कन्धमुद्दिष्टं स्खलिते जघनान्तरम् ।
भीते वक्षःस्थलं हन्याइक्रं चोन्मार्गगामिनि ॥
 
॥ ९१॥