This page has not been fully proofread.

२५८
 
शार्ङ्गधरपद्धतिः
 
1673
 
सरटं वारयेद्यत्वात्मविशन्तं हयालये ।
मन्दुराये तथा धार्यो रक्तवको महाकविः
 
अथाश्वानां जन्मदेशाः ।
 
॥ ७६ ॥
नकुलस्यैते ।
 
1674
 
अथाश्वानां
 
जन्मदेशान्प्रवक्ष्याम्यनुपूर्वशः ।
 
उत्तमानां च मध्यानां हीनानां यत्र संभवः ॥ ७७ ॥
 
1675
 
उत्तमास्ताजिकाः प्रोक्ता: पारसीका: समुद्रजाः ।
कोक्काणाखतलाणाश्च तथा सौराष्ट्रजा हयाः ॥ ७८ ॥
अव मध्यमाः ।
1676
 
उरोजाताथ कीराध तुरुप्कारजाश्च ये ।
 
टक्कजा: सैन्धवा मध्याः स्थलजातास्तथा हयाः ॥ ७९ ॥
 
अथ हीनाः ।
 
1677
 
शाम्भलाचार्जुलाश्चैव तथा सारस्वता हयाः ।
अधमाष्टाङ्कणाः सर्वे ये च प्राग्दक्षिणोद्भवाः ॥ ८० ॥
अथाश्ववाहनविधिः ।
 
1678
 
अथातः संप्रवक्ष्यामि हयारोहणमुत्तमम् ।
येन विज्ञानमात्रेण रेवन्तः प्रियतां त्रजेत् ॥ ८१ ॥
 
1679
 
रूपावर्तगतिच्छायाः सत्वं वर्णो वयो बलम् ।
वेगहीनस्य वाहस्य सर्वमेतन्निरर्थकम् ॥ ८२॥