This page has been fully proofread once and needs a second look.

तुरगप्रशंसा
 

1665
 

अधरोष्ठे च घोणायां गण्डयोश्विचिबुके तथा ।
 

मुष्के नाभौ त्रिके कुक्षावावर्तास्त्वतिनिन्दिताः ॥ ६८ ॥
 

शार्ङ्गधरस्यैसौ ।
 

अथाश्वानां शुभाशुभचेष्टितम् ।
 
1666
 

1666
यैर्बुधाः कथयन्त्याशु शुभं वा यदि वाशुभम् ।

स्वामिनो वाजिनां चिह्नैस्द्विज्ञेयं विचक्षणैः ॥ ६९ ॥
 

1667
 

यः संबद्धो हृयो रावमूर्ध्ववक्रः करोति च ।

खुराभेग्रेणालिखन्भूमिं स शंसति रणे जयम् ॥ ७० ॥
 

1668
 

यः करोत्यसकृन्मूत्रं पुरीषं वाश्रुमोचनम् ।

स शंसति पराभूतिमत्यन्तं यश्च दुर्मनाः ॥ ७१ ॥
 

1669
 

निष्कारणं निशान्ते यो हेषारावं करोत्यपि ।

परचक्रागमाशंसी स विज्ञेयो विचक्षणैः ॥ ७२ ॥
 

1670
 

पुलकाङ्कितपुच्छो यो जायते यस्य घोटकः ।
 

स शंसति स्थिरस्यापि द्रुतं तस्य प्रयाणकम् । ७३ ॥
 
18

16
71
 

स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोश्वस्य वह्निजाः ।

निर्गच्छन्तः प्रभोर्नाशं स शंसति निशागमे ॥ ७४ ॥
 
२५७
 

1672
 

अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः ।
 

मधुजालं प्रवन्ति स्तिबध्नन्ति म्रियन्तेश्वास्तदा ध्रुवम् ॥ ७५ ॥