This page has not been fully proofread.

तुरगप्रशंसा
 
1665
 
अधरोष्ठे च घोणायां गण्डयोश्विबुके तथा ।
 
मुष्के नाभौ त्रिके कुक्षावावर्तास्त्वतिनिन्दिताः ॥ ६८ ॥
 
शार्ङ्गधरस्यैसौ ।
 
अथाश्वानां शुभाशुभचेष्टितम् ।
 
1666
 
यैर्बुधाः कथयन्त्याशु शुभं वा यदि वाशुभम् ।
स्वामिनो वाजिनां चिह्नतज्ञेयं विचक्षणैः ॥ ६९ ॥
 
1667
 
यः संबद्धो हृयो रावमूर्ध्ववक्रः करोति च ।
खुराभेणालिखन्भूमिं स शंसति रणे जयम् ॥ ७० ॥
 
1668
 
यः करोत्यसकृन्मूत्रं पुरीषं वाश्रुमोचनम् ।
स शंसति पराभूतिमत्यन्तं यश्च दुर्मनाः ॥ ७१ ॥
 
1669
 
निष्कारणं निशान्ते यो हेषारावं करोत्यपि ।
परचक्रागमाशंसी स विज्ञेयो विचक्षणैः ॥ ७२ ॥
 
1670
 
पुलकाङ्कितपुच्छो यो जायते यस्य घोटकः ।
 
स शंसति स्थिरस्यापि द्रुतं तस्य प्रयाणकम् । ७३ ॥
 
1871
 
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोवस्य वह्निजाः ।
निर्गच्छन्तः प्रभोनशं स शंसति निशागमे ॥ ७४ ॥
 
२५७
 
1672
 
अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः ।
 
मधुजालं प्रवन्ति स्तिदा ध्रुवम् ॥ ७५ ॥