This page has been fully proofread once and needs a second look.

२५६
 
शार्ङ्गधरपद्धतिः
 

1656
 

हीनदन्तोधिकश्चैव कराली कृष्णतालुकः ।

कुद्दालो मुशली शृङ्गी षडेते स्वामिघातकाः ॥ ५९॥
 

1657
 

व्याघ्राभश्च स्तनी चैव द्विखुरः ककुदी तथा ।

एकाण्डश्चैव जाताण्डो वाहाः पापाः प्रकीर्तिताः ॥ ६० ॥
 

1658
 

पञ्चभिः सप्तभिर्दन्तैर्वाहीहौ हीनाधिकौ स्मृतौ ।
 

कराली चाधरैर्दन्तैश्छाद्यन्ते यस्य चोत्तराः ॥ ६१ ॥
 

1659
 

कृष्णं तालु भवेद्यस्य स भवेत्कृष्णतालुकः ।

कुद्दालश्रोत्तरैर्दन्तै श्छाद्यन्ते यस्य चाधराः ॥ ६२ ॥
 

1660
 

सितैकचरणः पुष्पहीनस्तु मुशली स्मृतः ।

कालाभावर्तकः कर्णदेशे यस्य स गृङ्शृंगिकः ॥ ६३ ॥
 
1661
 

1661
व्याघ्राभो व्याघ्रवर्ण : स्यात्स्तनयुक्तः स्तनी स्मृतः ।

द्विखुरं गोखुराकारैः खुरैर्विद्याद्विचक्षणः ॥ ६४ ॥
 

1662
 

आवर्तः ककुदे यस्य ककुदी स उदाहृतः ।

मुष्केणैकेन युक्तस्तु हयस्त्वेकाण्डसंज्ञितः ॥ ६५ ॥
 

1663
 

अण्डाभ्यां लोमशाभ्यां तु जाताण्डो न हितः स्मृतः ।

भस्माभवक्त्रपुच्छं च कृष्णनीलं परित्यजेत्

निन्द्यः केवलकृष्णस्तु सर्वश्वेतस्तु पूजितः ॥ ६६ ॥

 
अथ दुरावर्ताः ।
 

1664
 

पुच्छे जानुनि कक्षायां मेढेढ्रे गुह्ये हनौ हादे ।
हृदि ।
भ्रूदेशे नेत्रपरितः कर्णमीग्रीवादयस्तथा ॥ ६७ ॥