This page has not been fully proofread.

२५६
 
शार्ङ्गधरपद्धतिः
 
1656
 
हीनदन्तोधिकश्चैव कराली कृष्णतालुकः ।
कुद्दालो मुशली शृङ्गी षडेते स्वामिघातकाः ॥ ५९॥
 
1657
 
व्याघ्राभव स्तनी चैव द्विखुरः ककुदी तथा ।
एकाण्डश्चैव जाताण्डो वाहाः पापाः प्रकीर्तिताः ॥ ६० ॥
 
1658
 
पञ्चभिः सप्तभिर्दन्तैर्वाही हीनाधिकौ स्मृतौ ।
 
कराली चाधरैछायन्ते यस्य चोत्तराः ॥ ६१ ॥
 
1659
 
कृष्ण तालु भवेद्यस्य स भवेत्कृष्णतालुकः ।
कुद्दालश्रोत्तरैर्दन्तै छाद्यन्ते यस्य चाधराः ॥ ६२ ॥
 
1660
 
सितैकचरणः पुष्पहीनस्तु मुशली स्मृतः ।
कालाभावर्तकः कर्णदेशे यस्य स गृङ्गिकः ॥ ६३ ॥
 
1661
 
व्याघ्राभो व्याघ्रवर्ण : स्यात्स्तनयुक्तः स्तनी स्मृतः ।
द्विखुरं गोखुराकारैः खुरैर्विद्याद्विचक्षणः ॥ ६४ ॥
 
1662
 
आवर्तः ककुदे यस्य ककुदी स उदाहृतः ।
मुष्केणैकेन युक्तस्तु हयस्त्वेकाण्डसंज्ञितः ॥ ६५ ॥
 
1663
 
अण्डाभ्यां लोमशाभ्यां तु जाताण्डो न हितः स्मृतः ।
भस्माभवऋपुच्छ च कृष्णनीलं परित्यजेत्
निन्यः केवलकृष्णस्तु सर्वश्वेतस्तु पूजितः ॥ ६६ ॥
अथ दुरावर्ताः ।
 
1664
 
पुच्छे जानुनि कक्षायां मेढे गुह्ये हनौ हादे ।
भ्रूदेशे नेत्रपरितः कर्णमीवादयस्तथा ॥ ६७ ॥