This page has been fully proofread once and needs a second look.

तुरगप्रशंसा
 

अथ शुभावर्ताः ।
 

1648
 

एको ललाटे
 
द्वौ मूर्ध्नि द्वौद्वौ पार्श्वोपपार्श्वयोः ।
 

द्वौ
च वक्षसि विज्ञेयोयौ प्रयाणे चैक एव तु ॥ ५१ ॥
 

1649
 

ध्रुवावर्ता दश प्रोक्ता वाजिनः शुभकारकाः ।

प्रयाणे मारुतो भाले वहिह्निर्वक्षसि चाश्विनौ ॥ ५२ ॥
 

1650
 

सूर्याचन्द्रमसौ मूर्ध्नि रन्ध्रे स्कन्दगजाननौ ।

उपरन्ध्रे हरीशौ च दशावर्ता अतः शुभाः ॥ ५३ ॥
 

1651
 

त्रयो यस्य ललाटस्था आवर्ता अधरोत्तराः ।

निश्रेणी सांसा परिज्ञेया वाजिवृद्धिकरी परा !॥ ५४ ॥
 

1652
 

अनेनैव प्रकारेण त्रयो पीग्रीवाश्रिताः शुभाः ।

ललाटे युगलावर्तीतौ चन्द्राकोर्कौ शुभकारको ॥ ५५ ॥
 
कौ ॥ ५५ ॥
1653
 
२५५
 

कण्ठे चिन्तामणिर्जेयश्चिन्तितार्थप्रदः सदा ।

आवर्तः पृष्ठवंशे यः स सूर्याख्यः शुभः स्मृतः ॥ ५६ ॥
 

नकुलस्यैते ।
 

अथाशुभलक्षणानि ।
 

1654
 

चत्वारोप्यसिताः पादाः सर्वश्वेतस्य वाजिनः ।

भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ५७ ॥
 

1655
 

अन्यवर्णं शिरो यस्य पुच्छं वा यस्य वाजिनः ।

पुच्डेछेन शिरसा वापि नानावर्णः स निन्दितः ॥ ५८ ॥