This page has not been fully proofread.

तुरगप्रशंसा
 
अथ शुभावर्ताः ।
 
1648
 
एको ललाटे
 
मूर्ध्नि पार्श्वोपपार्श्वयोः ।
 
च वक्षसि विज्ञेयो प्रयाणे चैक एव तु ॥ ५१ ॥
 
1649
 
ध्रुवावर्ता दश प्रोक्ता वाजिनः शुभकारकाः ।
प्रयाणे मारुतो भाले वहिर्वक्षसि चाश्विनौ ॥ ५२ ॥
 
1650
 
सूर्याचन्द्रमसौ मूर्ध्नि रन्ध्रे स्कन्दगजाननौ ।
उपरन्ध्रे हरीशौ च दशावर्ता अतः शुभाः ॥ ५३ ॥
 
1651
 
त्रयो यस्य ललाटस्था आवर्ता अधरोत्तराः ।
निश्रेणी सां परिज्ञेया वाजिवृद्धिकरी परा !॥ ५४ ॥
 
1652
 
अनेनैव प्रकारेण त्रयो पीवाश्रिताः शुभाः ।
ललाटे युगलावर्ती चन्द्राको शुभकारको ॥ ५५ ॥
 
1653
 
२५५
 
कण्ठे चिन्तामणिर्जेयश्चिन्तितार्थप्रदः सदा ।
आवर्तः पृष्ठवंशे यः स सूर्याख्यः शुभः स्मृतः ॥ ५६ ॥
 
नकुलस्यैते ।
 
अथाशुभलक्षणानि ।
 
1654
 
चत्वारोप्यसिताः पादाः सर्वश्वेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ५७ ॥
 
1655
 
अन्यवर्ण शिरो यस्य पुच्छ वा यस्य वाजिनः ।
पुच्डेन शिरसा वापि नानावर्णः स निन्दितः ॥ ५८ ॥