This page has been fully proofread once and needs a second look.

१२ शार्ङ्गधरपद्धतिः

82

वियत्पुच्छाच्छोटोच्छलितजलगर्भं निधिरपा-
मपां नाथः पाथः पृषतलवशून्यो वियदभूत् ।
अभूद्भास्वानौर्वो दिनपतिरभूदौर्वदहन-
श्चलत्काये यस्मिन्स जयति हरिर्मीनवपुषा ॥ २६ ॥
कस्याप्येतौ ।

83

न पङ्कैरालेपं कलयति धरित्रीव्ययभया-
न्न मुस्तामादत्तेप्युरगनगरभ्रंशभयतः ।
न धत्ते ब्रह्माण्डस्फुटनभयतो घुर्धुररवं
वराहो माहात्म्यादिति जयति संकोचिततनुः ॥ २७ ॥
हनूमतः ।

84

दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि
स्फारीभूतकडारकेसरसटासंघट्टघोराकृतेः ।
सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तःस्मितं
क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् ॥ २८ ॥
इन्द्रकवेः ।

अथ ब्रह्मा ।

85

तं वन्दे पद्मसद्मानमुपवीतच्छटाछलात् ।
गङ्गा स्रोतस्त्रयेणैव यं सदैव निषेवते ॥ २९ ॥
राजशेखरस्य ।

अथ रविः ।

86

शुक्रतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ ३० ॥
नागम्मायाः ।

-----------