This page has not been fully proofread.

१२
 
शार्ङ्गधरपद्धतिः
 
82
 
वियत्पुच्छाच्छोटोच्छलितजलगर्भ निधिरपा-
मपां नाथः पाथः पृषतलवशून्यो वियदभूत् ।
अभूद्भास्वानौ दिनपतिरभूदौर्वदहन-
श्चलत्काये यस्मिन्स जयति हरिमनवपुषा ॥ २६ ॥
 
कस्याप्येतौ ।
 
83
 
न पङ्करालेप कलयति धरित्रीव्ययभया-
न्न मुस्ता मादत्तेप्युरगनगरभ्रंशभयतः ।
न धत्ते ब्रह्माण्डस्फुटनभयतो घुधुररवं
वराहो माहात्म्यादिति जयति संकोचिततनुः ॥ २७ ॥
 
हनूमतः !
 
84
 
दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि
स्फारीभूतकडारकेसर सटा संघट्टघोराकृतेः ।
सक्रोधं च सविस्मयं च सगुरुत्रीडं च सान्तःस्मितं
क्रीडाकेसरिणो हर्विजयते तत्कालमालोकितम् ॥ २८ ॥
 
इन्द्रकवेः
 
अथ ब्रह्मा ।
 
85
 
तं वन्दे पद्मसद्मानमुपवीतच्छटाळलात् ।
गङ्गा स्रोतस्त्रयेणैव यं सदैव निषेवते ॥ २९ ॥
 
राजशेखरस्य ।
 
अथ रविः ।
 
86
 
शुक्रतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ ३० ११
 
नागम्मायाः १