This page has been fully proofread once and needs a second look.

२५४
 
शार्ङ्गधरपद्धतिः
 
18

16
39
 

अर्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः ।

ततो हस्तेन हीनश्च हीन एव स्मृतो हयः ॥ ४२ ॥
 

1640
 

पञ्चहस्तप्रमाणेन दैर्घ्यमुत्तमवाजिनः ।

चतुर्भिर्मध्यमं प्रोक्तं त्रिभिः सार्धेस्तथाधमम् ॥ ४३ ॥
 
1641
 

1641
अपाङ्गात्पुच्छमूलं तु तिर्यगश्वं प्रमाणयेत् ।

खुरान्तात्ककुदं यावदूर्ध्वमानेन बुद्धिमान् ॥ ४४ ॥

 
अथ हयानां शुभलक्षणानि ।
 

1642
 

अथातः संप्रवक्ष्यामि लक्षणानि हि वाजिनाम् ।

शुभानि वर्णैरावर्तेतैस्तानि विद्याद्विचारतः ॥ ४५ ॥
 

1643
 

सर्वश्वेतो हयो यस्तु श्यामैकश्रवणो भवेत् ।
 

स वाजी वाजिमेधार्ह: श्यामकर्णः प्रकीर्तितः ॥ ४६ ॥
 
1644
 

1644
यस्य पादाः सिताः सर्वे तथा वक्रं च मध्यतः ।

कल्याणपञ्चकः प्रोक्तः सदा कल्याणकृच्च सः ॥ ४७ ॥
 

1645
 

यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा ।

मूर्धजाश्च सिता यस्य तं विद्यादष्टमङ्गलम् ॥ ४८ ॥
 
1646
 

1646
मुखे चन्द्रकसंवीतो जम्बूफलसमाकृतिः ।

श्वेतपादः स विज्ञेयो मल्लिकाक्षः सुपूजितः ॥ ४९ ॥
 

1647
 

कृष्णो वाजी भवेद्यः स कृष्णतालुर्न दुष्यति ।

कुत्सिता वर्तकर्णोपि पञ्चकल्याणकः शुभः ॥ ५० ॥