This page has not been fully proofread.

२५४
 
शार्ङ्गधरपद्धतिः
 
1839
 
अर्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः ।
ततो हस्तेन हीनश्च हीन एव स्मृतो हयः ॥ ४२ ॥
 
1640
 
पञ्चहस्तप्रमाणेन दैर्घ्यमुत्तमवाजिनः ।
चतुर्भिर्मध्यमं प्रोक्तं त्रिभिः सार्धेस्तथाधमम् ॥ ४३ ॥
 
1641
 
अपाङ्गापुच्छमूलं तु तिर्यगश्वं प्रमाणयेत् ।
खुरान्तात्ककुदं यावदूर्ध्वमानेन बुद्धिमान् ॥ ४४ ॥
अथ हयानां शुभलक्षणानि ।
 
1642
 
अथातः संप्रवक्ष्यामि लक्षणानि हि वाजिनाम् ।
शुभानि वर्णैरावर्तेस्तानि विद्याविचारतः ॥ ४५ ॥
 
1643
 
सर्वश्वेतो हयो यस्तु दयामैकश्रवणो भवेत् ।
 
स वाजी वाजिमेधार्ह श्यामकर्णः प्रकीर्तितः ॥ ४६ ॥
 
1644
 
यस्य पादाः सिताः सर्वे तथा वक्रं च मध्यतः ।
कल्याणपञ्चकः प्रोक्तः सदा कल्याणकृच्च सः ॥ ४७ ॥
 
1645
 
यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा ।
मूर्धजाच सिता यस्य तं विद्यादष्टमङ्गलम् ॥ ४८ ॥
 
1646
 
मुखे चन्द्रकसंवीतो जम्बूफलसमाकृतिः ।
श्वेतपादः स विज्ञेयो मल्लिकाक्षः सुपूजितः ॥ ४९ ॥
 
1647
 
कृष्णो वाजी भवेद्यः स कृष्णतालुर्न दुष्यति ।
कुत्सिता वर्तकर्णोपि पञ्चकल्याणकः शुभः ॥ ५० ॥