This page has not been fully proofread.

तुरगप्रशंसा
 
1630
 
वृषणौ च समौ वृत्तौ बिल्वमात्री विलोमशौ ।
कृष्णवर्णविहीनं च हूस्वं मेहनमिष्यते ॥ ३३ ॥
 
अथाश्वाङ्गमानलक्षणानि ।
 
1631
 
ऊर्ध्व व्रीहित्रयं मानमङ्गुलस्य निगद्यते ।
हस्तोपि हि समाख्यातश्चतुर्विंशद्भिरङ्गुलैः ॥ ३४ ॥
 
1632
 
20
 
द्वाविंशदङ्गुलं वक्रमुत्तमाश्वस्य कीर्तितम् ।
अङ्गुलद्वयहीनं तु मुखं स्यान्मध्यवाजिनः ॥ ३५ ॥
 
1633
 
ततोपि व्यङ्गुलं न्यूनं कनिष्ठस्य मुखं स्मृतम् ।
ग्रीवोत्तमस्य वाहस्य षट्पञ्चाशन्मिताङ्गुलैः ॥ ३६॥
 
1634
 
चत्वारिंशत्ष डधिका मध्यमाश्वस्य कीर्तिता ।
षट्त्रिंदशङ्गुलेवा हीनाश्वस्य प्रकीर्तिता ॥ ३७ ॥
 
1635
 
२५३
 
उरः पृष्ठं कटिश्चैव मुखतुल्यं समादिशेत् ।
कर्णी सप्ताङ्गुली प्रोक्तो तालुकं च षडङ्गुलम् ॥ ३८ ॥
 
1636
 
सूक्ष्मो ऋजुः पुच्छदण्डः कथितो विंशदङ्गुलः ।
वाविंशदङ्गुलोत्सेधे जङ्के चैवोत्तमे स्मृते ॥ ३९ ॥
 
1637
 
अष्टादश तथा मध्ये होने चैव चतुर्दश ।
संप्ताङ्गुलः खुरः प्रोक्त उत्तमाश्वस्य पण्डितैः ॥ ४० ॥
 
1638
 
षडङ्गुलो भवेन्मध्यः कनिष्ठः पञ्चसामेतः ।
चतुर्हस्तेन विख्यात उत्सेधेन हृयोत्तमः ॥ ४१ १