This page has been fully proofread once and needs a second look.

२५२
 
शार्ङ्गधरपद्धतिः
 
1621
 

1621
अत्यन्तनिर्गते चैव सुद्धे नैव चाविले ।

प्रशस्ते वाजिनां नेत्रे मध्वाभे कालतारके ॥ २४ ॥
 
1622
 
स्वावर्ते

1622
स्वावर्तं
च विशालं च ललाटं वाजिनां शुभम् ।

शस्तं शिरः समं वृत्तमावर्तद्वयभूषितम् ॥ २५ ॥
 

1623
 

ह्र
स्वता कर्णयोः रास्ता तीक्ष्णता तनुता तथा ।

सुदृढां कुञ्चितां दीघंर्घां धन्यां ग्रीवां विदुर्बुधाः ॥ २६ ॥
 

1624
 

केसरं च जटाहीनं मृदु दीर्घेघं प्रशस्यते ।

अनावर्तो दृढश्चैव स्कन्धो वाहस्य पूजितः ॥ २७ ॥
 

1625
 

उरो विशालं शस्तं च कक्षे दीर्घोन्नते शुभे ।

ऊरू वृत्तौ समौ बाहू गूढं जानु प्रशस्यते ॥ २८ ॥
 
1626
 

1626
अवक्रे मांसहीने च वाजिजचेङ्घे सुशोभने ।

कूर्चेचं समं सुसंधि स्याद्रन्थित्व्रणविवर्जितम् ॥ २९ ॥
 

1627
 

दृढमण्डूकिका कृष्णा वर्तुलाः पृथुलाः खुराः ।

पार्श्वावभ्युन्तीतौ दीर्घौ सुदृढौ च समौ शुभौ ॥ ३० ॥
 

1628
 

अवलम्बि सुवृत्तं च जठरं वाजिनां शुभम् ।

नातिदीर्घं समं पृष्ठं किंचिच्च विनतं शुभम् ॥ ३१ ॥

एते शालिहोत्रस्य ।
 

1629
 

पीना कटि: सुवृत्तश्च पश्चाद्भागः पृथुः शुभः ।
 

मृदुखिस्त्रिग्धायतैर्युक्तं वालैः पुच्छं प्रशस्यते ॥ ३२ ॥