This page has not been fully proofread.

२५२
 
शार्ङ्गधरपद्धतिः
 
1621
 
अत्यन्तनिर्गते चैव सुवद्धे नैव चाविले ।
प्रशस्ते वाजिनां नेत्रे मध्वाभे कालतारके ॥ २४ ॥
 
1622
 
स्वावर्ते च विशालं च ललाटं वाजिनां शुभम् ।
शस्तं शिरः समं वृत्तमावर्तइयभूषितम् ॥ २५ ॥
 
1623
 
स्वता कर्णयोः रास्ता तीक्ष्णता तनुता तथा ।
सुदृढां कुञ्चितां दीघं धन्यां ग्रीवां विदुर्बुधाः ॥ २६ ॥
 
1624
 
केसरं च जटाहीनं मृदु दीर्घे प्रशस्यते ।
अनावर्तो दृढश्चैव स्कन्धो वाहस्य पूजितः ॥ २७ ॥
 
1625
 
उरो विशालं शस्तं च कक्षे दीर्घोते शुभे ।
ऊरू वृत्तौ समौ बाहू गूढं जानु प्रशस्यते ॥ २८ ॥
 
1626
 
अव मांसहीने च वाजिजचे सुशोभने ।
कूर्चे समं सुसंधि स्याद्रन्थित्रणविवर्जितम् ॥ २९ ॥
 
1627
 
दृढमण्डकिका कृष्णा वर्तुलाः पृथुलाः खुराः ।
पार्श्वावभ्युनती दीर्घौ सुदृढौ च समौ शुभौ ॥ ३० ॥
 
1628
 
अवलम्बि सुवृत्तं च जठरं वाजिनां शुभम् ।
नातिदीर्घ समं पृष्ठं किंचिच विनतं शुभम् ॥ ३१ ॥
एते शालिहोत्रस्य ।
 
1629
 
पीना कटि: सुवृत्तश्च पश्चाद्भागः पृथुः शुभः ।
 
मृदुखिग्धायतैर्युक्तं वालैः पुच्छं प्रशस्यते ॥ ३२ ॥