This page has been fully proofread once and needs a second look.

तुरगप्रशंसा
 

1612
 

प्रायेण ब्राह्मणः शुक्लः क्षत्रियो लोहितः स्मृतः ।

वैश्यः पीताभवर्णः स्यात्कृष्णवर्णश्चतुर्थकः ॥ १५॥
 

1613
 

पुष्पगन्धः सदा विप्रः क्षत्रियोगुरुगन्धकः ।

घृतगन्धो भवेद्वैश्यो मीनामोदी चतुर्थकः ॥ १६ ॥
 
18

16
14
 

विवेकी सघुघृणो विप्रस्तेजस्वी क्षत्रियो बली ।

दुष्टभावस्तथा वैश्यः शूद्रो निःसत्त्वकातरः ॥ १७ ॥
 

1615
 

ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः ।

क्षत्रिया युद्धकार्येषु वैश्या द्रव्यार्जने सदा ॥ १८ ॥
 
1616
 

1616
शूद्राश्चान्येषु कृत्येषु ज्ञात्वैवं वाजिनः सदा ।

आरोहेद्युक्त कार्येषु यदीच्छेच्छाश्वतीं श्रियम् ॥ १९ ॥
 

1617
 
२५१
 

सदा सुप्ता भवन्त्येते वाजिनो ये तु भूतले ।

जाग्रत्यायोधने प्राप्ते कर्करस्य च भक्षणे ॥ २० ॥
 

1618
 

सुलक्षणा महावेगा: सुसत्त्वाश्चा तिघस्मराः ।

जितश्रमा विनीता ये राजार्हास्ते हयाः स्मृताः ॥ २१ ॥
 

 
अथ पृथगवयवलक्षणानि ।
 

1619
 

आताम्रौ पूजितावोष्ठौंठौ लेलिहानीनौ मृदुत्वची ।
चौ ।
जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते ॥ २२ ॥
 

1620
 

घनस्निग्धाः सुबद्धाश्च समा दन्ताः सुशोभनाः ।

नातिदीर्घौ पृथू नैव हनू वाहस्य शोभनौ ॥ २३ ॥