This page has not been fully proofread.

तुरगप्रशंसा
 
1612
 
प्रायेण ब्राह्मणः शुक्लः क्षत्रियो लोहितः स्मृतः ।
वैश्यः पीताभवर्णः स्यात्कृष्णवर्णश्चतुर्थकः ॥ १५॥
 
1613
 
पुष्पगन्धः सदा विप्रः क्षत्रियोगुरुगन्धकः ।
घृतगन्धो भवेद्वैश्यो मीनामोदी चतुर्थकः ॥ १६ ॥
 
1814
 
विवेकी सघुणो विप्रस्तेजस्वी क्षत्रियो बली ।
दुष्टभावस्तथा वैश्यः शूद्रो निःसत्त्वकातरः ॥ १७ ॥
 
1615
 
ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः ।
क्षत्रिया युद्धकार्येषु वैश्या द्रव्यार्जने सदा ॥ १८ ॥
 
1616
 
शूद्राश्चान्येषु कृत्येषु ज्ञात्वैवं वाजिनः सदा ।
आरोद्युक्त कार्येषु यदीच्छेच्छाश्वतीं श्रियम् ॥ १९ ॥
 
1617
 
२५१
 
सदा सुप्ता भवन्त्येते वाजिनो ये तु भूतले ।
जामत्यायोधने प्राप्ते कर्करस्य च भक्षणे ॥ २० ॥
 
1618
 
सुलक्षणा महावेगा: सुसत्त्वाचा तिघस्मराः ।
जितश्रमा विनीता ये राजास्ते हयाः स्मृताः ॥ २१ ॥
 
अथ पृथगवयवलक्षणानि ।
 
1619
 
आताम्रौ पूजितावोष्ठौं लेलिहानी मृदुत्वची ।
जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते ॥ २२ ॥
 
1620
 
घनस्निग्धाः सुबद्धाश्च समा दन्ताः सुशोभनाः ।
नातिदीर्घौ पृथू नैव हनू वाहस्य शोभनौ ॥ २३ ॥