This page has not been fully proofread.

२५०
 
शार्ङ्गधरपद्धतिः
 
1603
 
यो राजा भवतां पुष्टिं खानपानादिभिः सदा ।
करिष्यति स सर्वत्र जयवादी भविष्यति ॥ ६ ॥
 
1604
 
अथागत्य भुवं राज्ञां गता वाह्नतां हयाः ।
तेषां धर्मार्थकामांश्च साधयन्त्युपकारिणः ॥ ७ ॥
 
1605
 
श्रीमूलमण्डनं यस्य गृहे सन्ति न वाजिनः ।
गृहभित्तिषु तेनापि लेख्या दुरितशान्तये ॥ ८॥
 
1606
 
अश्वा यस्य जयस्तस्य यस्याश्वस्तस्य मेदिनी ।
अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम् ॥ ९ ॥
 
1607
 
निपत्य युधि वेगेन मिषतां सर्वधन्विनाम् ।
शत्रुं निहत्य यात्येकः शूरो वाजिप्रभावतः ॥ १० ॥
 
1608
 
शस्त्रैर्निभिन्नदेहोपि श्रान्तोपि गुरुभारतः ।
 
न मुञ्चति रणे नाथमत: कोन्यो हयात्सुहत् ॥ ११ ॥
 
1609
 
दूरस्थोपि बली शत्रुर्न शेते रजनीष्वपि ।
 
तस्य भीत्या गृहे यस्य हरयो वेगबत्तराः ॥ १२ ॥
 
1610
 
न गजैर्न नरैः कार्य सिद्धिमभ्येति भूभृताम् ।
तथा निमेषमात्रेण यथा वाहै: सुसाधितैः ॥ १३ ॥
 
शार्ङ्गधरस्यैते ।
 
अथाश्वानां सामान्यलक्षणानि ॥
 
1811
 
ब्राह्मणक्षत्रियविशां शूद्राणां चैव लक्षणैः।
ज्ञेया हयोत्तमास्तेषु पूर्व: पूर्व: शुभावहः ॥ १४ ॥