This page has been fully proofread once and needs a second look.

17
 
तुरगप्रशंसा
 

1595
 

शूरमारोहकं कुर्याद्वशगं च विशेषतः ।
 

शूरत्वं कातरत्वं च तदायचंत्तं गजे यतः ॥ ३६ ॥
 

1596
 

सज्जितः कल्पितः शूरः शूरारूढ: प्रतापवान् ।
 

जयत्येकोपि मातङ्गः षट्सहस्राणि वाजिनाम् ॥ ३७ ॥
 

1597
 

शरतोमरचक्रैश्च गजस्कन्धे हता नराः ।
 

क्षणात्स्वर्गे प्रयान्त्येव तस्मात्स्वर्गोपमा गजाः ॥ ३८ ॥

एते पालकाप्यार ।
 
त् ।
--------------
अथ तुरगप्रशंसा ॥ ७९ ॥
 

1598
 

पुरा सपक्षा हरयो विचेरु: खेचराः किल ।

गन्धर्वेभ्यः समुत्पन्नाः सदा स्वच्छन्दचारिणः ॥ १ ॥
 

1599
 

तेजोवाय्वम्बुद्गणैर्लब्धैर्लक्षितलक्षणान् ।
 

वीक्ष्य शक्रो जगादेदं शालिहोत्रं महामुनिम् ॥ २ ॥
 
२४९
 

1600
 

छिन्धि पक्षानमीषां त्वं यथा स्युर्वाहनानि मे ।

इषीकास्त्रेण सोप्येषां पक्षांस्तत्प्रीतयेच्छिनत् ॥ ३ ॥
 

1601
 

ततः प्रसादितैस्तैस्तु प्रादाद्वरमिदं मुनिः ।

युष्मत्पक्षोपमो वेगश्चरणानां भविष्यति ॥ ४ ॥
 

1602
 

यूयं शक्रादिदेवानां वाहनत्वं गमिष्यथ ।

तथा भूमिपतीनां च गौरवेण समन्विताः ॥ ५॥