This page has not been fully proofread.

17
 
तुरगप्रशंसा
 
1595
 
शूरमारोहकं कुर्यादशगं च विशेषतः ।
 
शूरत्वं कातरत्वं च तदायचं गजे यतः ॥ ३६ ॥
 
1596
 
सज्जितः कल्पितः शूरः शूरारूढ: प्रतापवान् ।
 
जयत्येकोपि मातङ्गः षट्सहस्राणि वाजिनाम् ॥ ३७ ॥
 
1597
 
शरतोमरचक्रैश्च गजस्कन्धे हता नराः ।
 
क्षणात्स्वर्गे प्रयान्त्येव तस्मात्स्वर्गोपमा गजाः ॥ ३८ ॥
एते पालकाप्यार ।
 
अथ तुरगप्रशंसा ॥ ७९ ॥
 
1598
 
पुरा सपक्षा हरयो विचेरु: खेचराः किल ।
गन्धर्वेभ्यः समुत्पन्नाः सदा स्वच्छन्दचारिणः ॥ १ ॥
 
1599
 
तेजोवाय्वम्बुद्गणैर्लब्धैर्लक्षितलक्षणान् ।
 
वीक्ष्य शक्रो जगादेदं शालिहोत्रं महामुनिम् ॥ २ ॥
 
२४९
 
1600
 
छिन्धि पक्षानमीषां त्वं यथा स्युर्वाहनानि मे ।
इषीकास्त्रेण सोप्येषां पक्षांस्तत्प्रीतयेच्छिनत् ॥ ३ ॥
 
1601
 
ततः प्रसादितैस्तैस्तु प्रादाइरमिदं मुनिः ।
युष्मत्पक्षोपमो वेगश्चरणानां भविष्यति ॥ ४ ॥
 
1602
 
यूयं शक्रादिदेवानां वाहनत्वं गमिष्यथ ।
तथा भूमिपतीनां च गौरवेण समन्विताः ॥ ५॥