This page has been fully proofread once and needs a second look.

२४८
 
शार्ङ्गधरपद्धतिः
 

अथ मृगलक्षणानि ।
 

1587
 

तनुत्वक्कर्णपादो यस्तन्वास्यस्तनुमेहनः ।

तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ २८ ॥
 

1588
 

दीर्घजिहाह्वाविपाषाणश्च दीर्घगात्रस्तथा च सः ।

प्रध्वस्तरीरोमकर्णत्वक्पुरस्ताच्चापि संवृतः ॥ २९ ॥
 

1589
 

निपाने गोचरस्थाने शय्यायां चाप्यनिर्वृतः ।

तूर्याभिभवशङ्की च नित्यमेवानवस्थितः ॥ ३० ॥
 

1590
 
हस्त्रभ्

ह्रस्वश्
रवणलाङ्कलांगूलो दीर्घं विक्रमते क्रमैः ।

पुनः पुनश्च विनदन्दुर्मतिश्चाभिवाधावति ॥ ३१ ॥

 
अथ मिश्रलक्षणम् ।
 

1591
 
बढ़ाशी

बह्वाशी बह्वलीकश्च दण्डपातेषु चाक्षमः ।

गच्छेत्प्रकृष्टवेगश्र भारं प्राप्यावसीदति ॥ ३२ ॥
 

1592
 

कृच्छ्राच्चाप्यायते नागः क्षिप्रं च परिहीयते ।

टुट्वम्ललवणैश्चैव स्वक्षैश्चातुरतां व्रजेत् ॥ ३३ ॥
 

1593
 

नित्यं च सान्त्वयेदेनं न चैनमभितापयेत् ।

सर्वेषां लक्षणैः कैश्चिद्युक्तो मिश्रो भवेद्गजः ॥ ३४ ॥

 
अथ गजप्रक्रिया ।
 

1594
 

एवं विधान्गजाञ्जात्यान्वनादानीय पार्थिवः ।

विनये शिष्यवत्कुर्यात्पुत्रवत्परिपालयेत् ॥३५ ॥