This page has been fully proofread once and needs a second look.

२४६
 
शार्ङ्गधरपद्धतिः
 

व्यूहं विद्रावयन्तः सुघनमपि वनं हेलयोत्पाटयन्तो

येषाम/माजौ गजेन्द्राः खलु धरणिभुजां तज्जयः सिद्ध एव ॥ १३ ॥
 

1573
 

रक्षन्ति पक्षं मुदिताः स्वकीयं

मथ्नन्ति सैन्यं कुपिताः परेषाम् ।

प्राणैरपीच्छन्ति हितं प्रभूणां
 

गजैः समानं क्व बलं बलीयः ॥ १४ ॥
 

1574
 
तावद्ह

तावद्ग
र्जन्ति वीर्यात्परनिधनविधौ युद्धमध्येपि धीरा-

स्तावद्धावन्ति वेगं परमपि दधतः संमुखीनास्तुरंगाः ।

शूरारूढः सुसज्जो मदमुदितमना मानिमानं विधुन्व-

न्यावन्नायाति कोपात्कृत विविधरवाटोप एकोपि नागः ॥ १५ ॥
 

1575
 

सैन्योत्तारणतो धुनीषु सततं यो वारिबन्धायते

यो मथ्नन्परितः परोद्धतबलं युद्धेषु योधायते ।

यः स्वीयक्षितिनाथरक्षणविधौ प्रोच्चैकदुर्गायते

स प्राज्यो विजिगीषुभिर्गजगणः कैः पार्थिवैर्नार्थ्यते ॥ १६ ॥
 

1576
 

मातङ्गैरपि यैर्महीन्द्रभवनं पुण्याधिकं जन्यते
 

यैः श्यामैरपि सर्वलोकमहिंहिता कीर्तिः सिता तन्यते ।

यैर्मत्तैरपि संगरे रिपुमदः शोषं समानीयते
 

तेमी भाग्यवत: प्रयान्ति पुरतः स्तम्बेरमा भूपतेः ॥ १७ ॥
 

एते गुणाकरस्य ।
 

अथ भद्रलक्षणानि ।
 

1577
 

प्रतिमानेषु विपुलश्राचारुपृष्ठायतानमःनः
 

मुखे मुसुरभिनि:श्वासस्ताम्रजिह्वौष्ठतालुकः ॥ १८ ॥