2023-04-12 00:05:08 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
प्रेयस्याः क्व तदासनं क्व च रुतं कण्ठः क्व चेत्युल्लस-
ल्लक्ष्म्यावासितमानसो विजयते सुप्तप्रबुद्धो हरिः ॥ १९ ॥
कस्यापि ।
अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः ।
तदपहृतं निजहृदयं जयति हरिर्मृगयमाण इव ॥ २० ॥
अरसीठक्कुरस्य ।
मकरीविरचनभङ्
ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति ॥ २१ ॥
हरिहरस्य ।
खिन्नोसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः
भरमुग्रविततबाहुषु गोपेषु हसन्हरिर्जयति ॥ २२ ॥
सुबन्धोः ।
शिरश्छायां कृष्णः क्षणमकृत राधाचरणयो-
र्भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ ।
इति क्रीडाकोपे निभृतमुभयोरप्यनुनय-
प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः ॥ २३ ॥
कस्यापि ।
वेदानुद्धरते जगन्निवहते भूगोलमुद्
दैत्यं दारयते बलिं छलयते क्षत्त्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ २४ ॥
जयदेवस्य ।
जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटना-
दुद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः ।
यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटीलं वपुः
पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ २५ ॥