This page has been fully proofread once and needs a second look.

नमस्कृतिः
 
११
 
प्रेयस्याः क्व तदासनं क्व च रुतं कण्ठः क्व चेत्युल्लस-

ल्लक्ष्म्यावासितमानसो विजयते सुप्तप्रबुद्धो हरिः ॥ १९ ॥
 

कस्यापि ।
 

 
76
 

 
अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः ।

तदपहृतं निजहृदयं जयति हरिर्मृगयमाण इव ॥ २० ॥

अरसीठक्कुरस्य ।
 

 
77
 

 
मकरीविरचनभङ्गया राधाकुचकलशपीडनव्यसनी ।

ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति ॥ २१ ॥
 

हरिहरस्य ।
 

 
78
 

 
खिन्नोसि मुञ्च शैलं बिभूभृमो वयमिति वदत्सु शिथिलभुजः

भरभुममुग्रविततबाहुषु गोपेषु हसन्हरिर्जयति ॥ २२ ॥
 

सुबन्धोः ।
 

 
79
 

 
शिरश्छायां कृष्णः क्षणमकृत राधाचरणयो-

र्भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ ।

इति क्रीडाकोपे निभृतमुभयोरप्यनुनय-

प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः ॥ २३ ॥
 

कस्यापि ।
 

 
80
 
११
 

 
वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते
 

दैत्यं दारयते बलिं छलयते क्षत्त्रक्षयं कुर्वते ।
 

पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
स्

म्
लेच्छा न्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ २४ ॥
 

जयदेवस्य ।
 

 
81
 

 
जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटना-

दुद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः ।

यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटीलं वपुः

पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ २५ ॥