This page has not been fully proofread.

नमस्कृतिः
 
प्रेयस्याः क्व तदासनं क्व च रुतं कण्ठः क चेत्युल्लस-
ल्लक्ष्म्यावासितमानसो विजयते सुप्तप्रबुद्धो हरिः ॥ १९ ॥
 
कस्यापि ।
 
76
 
अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः ।
तदपहृतं निजहृदयं जयति हरिर्मृगयमाण इव ॥ २० ॥
अरसीठक्कुरस्य ।
 
77
 
मकरीविरचनभङ्गया राधाकुचकलशपीडनव्यसनी ।
ऋजुमपि रेखां लुम्पन्बलववेषो हरिर्जयति ॥ २१ ॥
 
हरिहरस्य ।
 
78
 
खिन्नोसि मुञ्च शैलं बिभूमो वयमिति वदत्सु शिथिलभुजः
भरभुमविततबाहुषु गोपेषु हसन्हरिर्जयति ॥ २२ ॥
 
सुबन्धोः ।
 
79
 
शिरश्छायां कृष्णः क्षणमकृत राधाचरणयो-
र्भुजावलिच्छायामियमपि तदीयप्रतिकृतौ ।
इति क्रीडाकोपे निभृतमुभयोरप्यनुनय-
प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः ॥ २३ ॥
 
कस्यापि ।
 
80
 
११
 
वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते
 
दैत्यं दारयते बलिं छलयते क्षत्त्रक्षयं कुर्वते ।
 
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
स्लेच्छा मूर्धयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ २४ ॥
 
जयदेवस्य ।
 
81
 
जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटना-
दुद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः ।
यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटीलं वपुः
पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ २५ ॥