This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
युष्मद्दर्शनलालसाः प्रतिदिनं युष्मान्स्मरामो वयं
धन्यः कोपि स वासरोत्र भविता यत्रावयोः संगमः ॥ ३० ॥
एतौ राघवचैतन्यश्रीचरणानाम् ।
 
२४४
 
1559
 
चासः शुभ्रमृतुर्वसन्तसमयः पुष्पं शरन्मल्लिका
 
धानुष्कः कुसुमायुधः परिमल: कस्तूरिकास्त्रं धनुः ।
वाणी सर्करसोज्ज्वला प्रियतमा श्यामा वयो यौवनं
मार्ग: शांभव एवं पञ्चमलया गीतिः कविहिणः ॥ ३१ ॥
 
बिल्हणस्य ।
 
अथ गजप्रशंसा ॥ ७८ ॥
 
1560
 
यतो गजेविना राज्ञां राज्यशोभा न जायते ।
जयप्रतापौ सैन्यस्य रक्षा तस्मादिहोच्यते ॥ १ ॥
 
1561
 
पुरा स्वर्गे सुखेनासन्कामगाः खचरा गजाः ।
मुनिशापाहता भूमौ ततो जाता वनेचराः ॥ २ ॥
 
1562
 
भद्रो मन्दो मृगो मिश्रचतुर्धा जायते गजः ।
त्रयो युगत्रयेसूवन्मिभाः कलियुगे गजाः ॥ ३ ॥
शार्ङ्गधरस्यैतौ ।
 
1563
 
यतः सत्यं ततो धर्मो यतो धर्मस्ततो वनम् ।
 
बतो रूपं ततः शीलं यतो नागास्ततो जयः ॥ ४ ॥
 
1564
 
यवदनमसिंहं तु यद्दद्राष्ट्रमपार्थिवम् ।
 
होमवंतु नमाम् ॥ ५