This page has been fully proofread once and needs a second look.

1553
लोभंश्चदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ २५ ॥
1554
मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं
कार्येण द्विजनादरेण युवतिं प्रेम्णातितीव्रं स्तवैः ।
बन्धुं क्षान्ततया गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं
विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम् ॥२६॥
केषामप्येते ।
1555
वाजी चारुगतिः शशाङ्कधवलं छत्रं प्रिया पृष्ठतः
प्रोत्तुङ्गस्तनमण्डला विजयिनो भृत्याः पुरः पञ्चषाः ।
ताम्बूलं प्रचुरं सखा सुचतुर: संपद्यते चेत्पथि
प्राहुस्तत्कटकप्रयाणमितरत्प्राणप्रयाणं बुधाः ॥ २७ ॥
कस्यापि ।
1556
जवो हि सप्तेः परमं विभूषणं
त्रपाङ्गनायाः कृशता तपस्विन: ।
द्विजस्य विद्या नृपतेरपि क्षमा
पराक्रमः शस्त्रबलोपजीविनाम् । २८ ॥
पाण्डवनकुलस्य ।
1557
इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं
मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पाकरम् ।
माकन्दं पिकसुन्दरीव तरुणीवात्मेश्वरं प्रोषितं
चेतोवृत्तिरियं मम प्रियसखे त्वां द्रष्टुमुत्कण्ठते ॥ २९ ॥
1558
नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानसं
सानन्दाः स्फुटसल्लकीवनयुतां ध्यायन्ति रेवां गजाः ।