This page has been fully proofread once and needs a second look.

मिश्रकनीतिः
 
1553
 

लोभंश्चदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
 

सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।

सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः

हिद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ २५ ॥
 

1554
 

मित्रं स्वच्छतया रिपुं नयबलैर्लुग्ब्धं धनैरीश्वरं

कार्येण द्विजनादरेण युवतिं प्रेग्म्णातितीव्रं स्तवैः ।

बन्धुं क्षान्ततया गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं

विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्शम् ॥२६॥
 

केषामध्प्येते ।
 

1555
 
बा

वा
जी चारुगतिः शशाङ्कधवलं छत्रं प्रिया पृष्ठतः

प्रोत्चुतुङ्गस्तनमण्डला विजयिनो भृत्याः पुरः पञ्चषाः ।

ताम्बूलं प्रचुरं सखा सुचतुर: संपद्यते चेत्पथि

प्राहुस्तत्कटक प्रयाणमितरत्प्राणप्रयागंणं बुधाः ॥ २७ ॥
 

कस्यापि ।
 

1556
 

जवो हि सप्तेः परमं विभूषणं

त्रपाङ्गनायाः कृशता तपस्त्रिविन: ।
 
२४३
 

द्विजस्य विद्या नृपतेरपि क्षमा

पराक्रमः शस्त्रबलोपजीविनाम् । २८ ॥
 

पाण्डवनकुलस्य ।
1557
 

इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं

मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पाकरम् ।

माकन्दं पिकसुन्दरीव तरुणीवात्मेश्वरं प्रोषितं

चेतोवृत्तिरियं मम प्रियसखे त्वां द्रष्टुमुत्कण्ठते ॥ २९ ॥
 

1558
 
पाण्डवनकुलस्य ।
 

नित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानसं

सानन्दाः स्फुटसल्लकीवनयुतां ध्यायन्ति रेवां गजाः ।